Thursday 24 June 2010

आरभ्यते MPhil कार्यम् अधुना

पुस्तकानुवादस्य कार्यं कथञ्चित् समाप्तम् अधुना। अस्मिन् मासे यदि MPhil कार्यम् अपि प्रथमलेखनपर्यन्तं वा समाप्नोति तर्हि आनन्द:। अद्यारभ्य सर्वद्वाराणि संयम्य मनो हृदि नियम्य च मूर्ध्न्याधायात्मन: प्राणम् आस्थास्यामि MPhil-धारणाम्। इदमेव कर्तुं कृतसङ्कल्पोऽस्मि

Saturday 5 June 2010

पुनरपि नवसंकल्प:!!

अद्य पुनरपि कतिचन परिवर्तनानि स्वात्मनि आनेतुम् इच्छया नूतनारम्भ: क्रियते!
आरब्धमुत्तमगुणा न परित्यजन्ति इतीमां पङ्क्तिं मनसि कृत्वा!
मम इष्टदेवस्य मारुतेर्नाम संस्मर्य!

Monday 31 May 2010

पुनर्नवसंकल्पनम्

मयि कतिपयानि परिवर्तनानि आनेयानि इति चिन्तितवान्नस्मि। कानि तानि इति स्पष्टम् एव अस्ति मनसि। परन्तु आलस्यनामा महारिपु: मम शरीरे निविष्ट: भूयो भूय: मां पराजयते। लक्षानां विस्मार: भवति। संकल्पा: वनष्टा: भवन्ति। पुन: नवसंकल्पं कर्तुं धार्ष्ट्यमपि नावशिष्यते पूर्वतनसंकल्पानां दुरावस्थां वीक्ष्य। परन्तु तदा तदा ’नीड का निर्माण फिर फिर’ इति हरिवंशरायविरचितं काव्यं प्रेरयति। पातस्तु भवत्येव। परन्तु पातादनन्तरं किं कार्यम्। परिज्ञाते एव पाते तत: अनुपदम् उत्थानम् पुनरपि प्रगतिपथे पदविन्यास:। न भेतव्यं न भेतव्यम्। स अवोचत् - नाश के भय से कभी दबता नही निर्माण का सुख, प्रलय की निस्तब्धता से सृष्टिका नवगान फिर फिर, नीड का निर्माण फिर फिर, नेह का आव्हान फिर फिर’। अद्य रात्रौ शीघ्रं शयित्वा प्रात: शीघ्रम् उत्थातव्यमिति कृतसंकल्प: अहं आन्तर्जाले रत: अधुना प्रतरेव शये! परन्तु पुनरपि श्व: तथैव करिष्ये इति संकल्पं कर्तुं धैर्यं सम्प्राप्तम्। अस्तु साधयामि तावत् पुनरपि तृणैर्नीडं निर्मातुमिव चण्डमारुतस्यागमनस्य सम्भावना: अपरिगणयन्।

Friday 7 May 2010

बदलापुरे प्रवृत्तात् संस्कृतभारत्या: प्रशिक्षणशिबिरात्

योगि-अरविन्द-गुरुकुले बदलापुरे अस्मि। अत्र प्रवृत्ते संस्कृत-सम्भाषण-शिक्षक-प्रशिक्षण-शिबिरे अध्यापकत्वं वहामि। सम्पूर्णात् कोङ्कणाप्रान्तात् ७५जना: प्रशिक्शणं प्राप्तुमागता:। आधिक्येन गोवात: सन्ति। मुम्बैत: अपि प्राय: २०जना: सन्ति। यूनां संख्या अधिका इति विशेश:। गण: उत्तम: दृश्यते। प्राय: सर्वेऽपि अग्रतो गत्वा संस्कृतभारत्या: कर्यकर्तार: भवेयु: संस्कृतकार्यं च कुर्यु: इति आशासे। कतिचन पूर्णकालिका: अपि लभ्येरन् इति अस्ति भाति। अहम् अत्र तेभ्य: प्रतिदिनं घण्टाद्वयम् आदर्शशिबिरं चालयामि। प्रतिदिनं घण्टाद्वयं चालितस्य शिबिरस्य विमर्शं च करोमि। ममापि महान् सन्तोष: अस्ति।

मश्ये एव श्रूयते यत् सोमैयास्थिते संस्क्रुतिपीठे व्याख्यातृपदं किञ्चित् विद्यते। तदर्थं चयनमारप्स्यते इति। मदर्थे अयम् उत्तम: अवसर:। चिन्तयन्नस्मि- यदि अत्र चयनं भवेत् तर्हि जीवनस्य संघर्षं सर्वोऽपि क्षणमात्रे समाप्त: भवेत् इति। पश्याम इइश्वरस्य का योजना मदर्थे।

Wednesday 14 April 2010

आशापाशशतैर्बद्ध:

संसारचक्रे निबद्धा: मुमुक्षव: किल वयम्। कस्मात् वयं मुमुक्षवो न मुक्ता:। कोऽस्मान् बध्नाति? कथञ्जातीयकेन पाशेन? स्वयमेवात्मानं बध्नीमो वयम्। नेतर: कोऽप्यस्मान् बन्धुं समर्थ:। किं पाशभूतम्? इति चेत् आशा। रात्रिर्गमिष्यति सुप्रभातं भविष्यति इत्यादिरूपा। तया बद्धा: पुष्पसदृशकोमलकोषम् अपि भेत्तुम् नेच्छाम:, नोत्सहामहे, नोत्तिष्ठाम:। अपेक्षते मुक्तये केवलं धैर्यम्। वर्तमानस्थितिं यथावस्थाम् अङ्गीकर्तुम्। अपेक्षते सहसोत्थाय अस्माकं मनोराज्यमात्रस्य भेद:। तावति कृते वर्तमाने वास्तवे मुक्तिरेव अस्ति अस्माकम्!

कदा वा एतत् सत्यम् अनुभवस्तरे ज्ञास्यते मया?

Saturday 10 April 2010

अद्य आलस्यग्रस्त: इव अस्मि किम् अधुना करवाणि

मासेऽस्मिन् पुस्तकानुवादकार्यं पूर्णतां प्रति नेयम्। भा.प्रौ.सं इत्यस्य परीक्षे स्त: अष्टादशे अष्टाविंशतौ च। MPhil कार्यं सार्धैकवर्षं विलम्बितम् अस्ति। कथञ्चित् अस्मिन् मासे समापनीयम् इति कृतसङ्कल्पोऽस्मि। पुनश्च मे-मासे प्रशिक्षणशिबिरं गमिष्यामि। ह....! कियत् दु:खदम् इदं सुभाषितं यत् - उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथै:। हे ईश्वर, त्वन्तु सर्वसमर्थोऽसि कस्ममन्न मनोरथसिद्धानि एव कार्याणि तव सृष्टौ? कस्मान्न कल्पवृक्षान् भूमौ अवतारयसि? अहह... कष्टं भो:।

Thursday 8 April 2010

समाप्तम् अनुवादकार्यम्।

अन्तत: समाप्तम् अस्ति भो: जना: मे अनुवादकार्यम्। न न। नहि पूर्णतया। अद्यापि प्रथमं लेखनं समाप्तम्। परन्तु नहि अनेन पुस्तकानुवादकार्यं पूर्णतां गतम्। अधुना कैश्चित् तत् पठनीयम्। तत्र लेखनदोशा: परिमार्ष्टव्या:। सूचना: देया:। तदनु इतोऽपि कानिचन परिवर्तननि आनेष्यन्ते अस्माभि:। तत: प्रकाशतां गमिष्यति मम अयं मनस: पुत्रक:। पश्यामस्तावत् कदा इदं सर्वमपि समाप्तिम् याति।

सम्प्रति केचन उक्ता: सन्ति। परन्तु जम्भीरा: पाठका: केनचिदेव दैवानुकम्पितेन प्राप्यन्ते। नतु सर्वैरपि। अस्तु! पथितं मया यत्त्वय लिखितम्। सधु अस्ति। इत्युक्त्वा पलायन्ते प्रयाश: सर्वे। तत् पश्याम: कीदृग्दैवप्रसाद: लभ्यते अनेन कार्येण। अथवा उक्तं खलु कृष्णेन - अधिष्ठानं तथा कर्ता करणं च पृथग्विधम्। विविधाश्च पोऋथक् चेष्टा: दैवञ्चैवात्र पञ्चमम्।। तदिदानीं पञ्चमस्यैव आनुकूल्यं प्रतीक्ष्यते। अन्यच्चतुष्ट्वं यन्मदायत्तम् तत् यथाशक्ति यथामति अनुष्ठितम् इति मे भाव:।

Tuesday 23 March 2010

चैत्रशुक्लाष्टमी मध्याह्ने ४वादने

तदेव सुदीर्घायितम् अनुवादकार्यं समापयितुं भूरिश: यत्नवान्नस्मि। परं यथोक्तं पार्थेन गीतायाम् - प्रमाथि बलवद्दृढं चञ्चलं मन: नैव कार्ये लग्नं भवति!! किं वा करवणि? अस्तु... पुनरपि प्रतिनिवृत्य तत्रैव अवधास्यामि। उत्तरितं किल कृष्णेन - अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते। तत् अद्य तद्वचांसि प्रयोगाधीनानि करोमि। किं प्रयोगफलम् इति तु अचिरात् इहैव विज्ञापयिष्यामि। साधयामि तावत्।