Saturday 10 April 2010

अद्य आलस्यग्रस्त: इव अस्मि किम् अधुना करवाणि

मासेऽस्मिन् पुस्तकानुवादकार्यं पूर्णतां प्रति नेयम्। भा.प्रौ.सं इत्यस्य परीक्षे स्त: अष्टादशे अष्टाविंशतौ च। MPhil कार्यं सार्धैकवर्षं विलम्बितम् अस्ति। कथञ्चित् अस्मिन् मासे समापनीयम् इति कृतसङ्कल्पोऽस्मि। पुनश्च मे-मासे प्रशिक्षणशिबिरं गमिष्यामि। ह....! कियत् दु:खदम् इदं सुभाषितं यत् - उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथै:। हे ईश्वर, त्वन्तु सर्वसमर्थोऽसि कस्ममन्न मनोरथसिद्धानि एव कार्याणि तव सृष्टौ? कस्मान्न कल्पवृक्षान् भूमौ अवतारयसि? अहह... कष्टं भो:।

1 comment:

  1. हे ईश्वर, त्वन्तु सर्वसमर्थोऽसि कस्ममन्न मनोरथसिद्धानि एव कार्याणि तव सृष्टौ? कस्मान्न कल्पवृक्षान् भूमौ अवतारयसि? अहह... कष्टं भो:।
    अद्भुतम् चिन्तनम् भोः ......

    ReplyDelete