Friday 7 May 2010

बदलापुरे प्रवृत्तात् संस्कृतभारत्या: प्रशिक्षणशिबिरात्

योगि-अरविन्द-गुरुकुले बदलापुरे अस्मि। अत्र प्रवृत्ते संस्कृत-सम्भाषण-शिक्षक-प्रशिक्षण-शिबिरे अध्यापकत्वं वहामि। सम्पूर्णात् कोङ्कणाप्रान्तात् ७५जना: प्रशिक्शणं प्राप्तुमागता:। आधिक्येन गोवात: सन्ति। मुम्बैत: अपि प्राय: २०जना: सन्ति। यूनां संख्या अधिका इति विशेश:। गण: उत्तम: दृश्यते। प्राय: सर्वेऽपि अग्रतो गत्वा संस्कृतभारत्या: कर्यकर्तार: भवेयु: संस्कृतकार्यं च कुर्यु: इति आशासे। कतिचन पूर्णकालिका: अपि लभ्येरन् इति अस्ति भाति। अहम् अत्र तेभ्य: प्रतिदिनं घण्टाद्वयम् आदर्शशिबिरं चालयामि। प्रतिदिनं घण्टाद्वयं चालितस्य शिबिरस्य विमर्शं च करोमि। ममापि महान् सन्तोष: अस्ति।

मश्ये एव श्रूयते यत् सोमैयास्थिते संस्क्रुतिपीठे व्याख्यातृपदं किञ्चित् विद्यते। तदर्थं चयनमारप्स्यते इति। मदर्थे अयम् उत्तम: अवसर:। चिन्तयन्नस्मि- यदि अत्र चयनं भवेत् तर्हि जीवनस्य संघर्षं सर्वोऽपि क्षणमात्रे समाप्त: भवेत् इति। पश्याम इइश्वरस्य का योजना मदर्थे।

1 comment:

  1. यदि अत्र चयनं भवेत् तर्हि जीवनस्य संघर्षः सर्वोऽपि क्षणमात्रे समाप्त:भवेत् इति। पश्याम ईश्वरस्य का योजना मदर्थे।..........
    पठित्वा सुखमनुभूतम् ....
    एकैको अपि एकविधमेव चिन्तयति...
    हा हा हा ....

    ReplyDelete